________________
सौधर्मादिषु सन्त्येवार्हचैत्यानि। ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तद्गणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः। अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यक् , अतिप्रसङ्गात्, इति सर्वतीर्थकराणां स्तुतिरुक्ता । | इदानी येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत् प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , तत्रापि तत्प्रणेतृन् भगवतः प्रथमं स्तौति
पुक्खरयरदीवड़े धायइसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥ । भरतं भरतक्षेत्रम् , ऐरवतमैरवतक्षेत्रम् , विदेहमिति भीमो भीमसेन इति न्यायाद् महाविदेहक्षेत्रम् , एवं समाहारद्वन्द्वः, तेषु भरतरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान् सूत्रतः प्रथमकरणशीलान् , नमस्यामि स्तुवे । क्व यानि भरतैरवतमहावि-10 देहक्षेत्राणि ? इत्याह-पुष्कराणि पद्मानि, तैवरः पुष्करवरः, स चासौ द्वीपश्च पुष्कररद्वीपः तृतीयो द्वीपः, तस्या मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र द्वे भरते द्वे ऐरवते द्वे महाविदेहे। तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखंण्डो द्वीपः, तस्मिन् द्वे भरते द्वे ऐरवते द्वे महाविदेहे। जम्ब्वा उपलक्षितः तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः। शेषास्त्वकर्मभूमयः। यदाहु-" भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र
१ आवश्यकसूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८८ । आवश्यकचूर्णिः पृ० २५८ । ललितविस्तरा। धर्मसंग्रहवृत्तिः पृ० १५८-१५९॥ २ धाईसंडे-खं. । धाइयसंडे-सं.॥ ३ तैरावत०-शां. खं. ॥ ४ वरद्वीपद्वीपस्तृतीयो द्वीपः-खं.॥ ५ षण्डानि-खं.॥ ६ ०षण्डो-खं. ॥ ७ तस्मिन् धातुकीषण्डे-खं. ॥ ८ शेषास्त्वकर्मभूमयः-नास्ति शां.॥
॥ ६३३॥
Jain Education Inte rnal
For Private & Personal Use Only
lwww.jainelibrary.org