________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६३२ ॥
Jain Education Inte
तथा-
चंदे निम्मलयरा आइचेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥
" पञ्चम्यास्तृतीया च " [ सि० ८ | ३ | १३६ ] इति पञ्चम्यर्थे सप्तमी, अतचन्द्रेभ्यो निर्मलतराः सकलकर्ममलाप - गमात, पाठान्तरं वा 'चंदेहिं निम्मलयरा' । एवमादित्येभ्योऽधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् उक्तं च
"चंदाच गहाणं पहा पयासेइ परिमियं खितं ।
केवलिअनागलंभो लोआलोयं पयासेइ ॥ १ ॥ "
[ आवश्यक निर्युक्तौ ११०२]
सागरवरः स्वयम्भूरमणाख्यः समुद्रः, परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः, सिद्धाः, कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्तिम् मम दिशन्तु प्रयच्छन्तु ।
एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति पठन्ति वा - सव्वलोए अरहंत चेड़ आणं करेमि की उस्सग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम्, सर्वश्वासौ लोक अधस्तिर्यगूर्ध्वभेदः, तास्मंस्त्रैलोक्ये इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपा ऽचल - ज्योतिष्क विमानादिषु, ऊर्ध्वलोके १०न्द्रेभ्योऽपि निर्म० - मु. ॥ २०मादित्येभ्योऽप्यधिकं मु. ॥ ३ लोआलोअं-मु. ॥ ४०ख्यसमुद्रः खं. ॥ ५ अरिहंत०-मु. ॥ ६ काउसग्ग०- मु. ॥ ७ दृश्यताम् आवश्यक सूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८७ । आवश्यकचूर्णिः पृ० २५७ | ललितविस्तरा । धर्मसंग्रहवृत्तिः पृ० १५८ ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६३२ ॥
5
'लोगस्स'
सूत्रव्याख्या
10
www.jainelibrary.org