________________
यदाह
॥६३१ ॥
"क्षीणक्लेशा एते न हि प्रसीदन्ति नै स्तवोऽपि वृथा। ततस्तवभावविशुद्धेः प्रयोजनं कमविगम इति ॥१॥" [
तथा--
" कित्तिय वंदिय महिया जे ए लोगस्स उत्तमा सिद्धा ।
आरुगबोहिलाभं समाहिवरमुत्तमं दितु ॥ ६॥ कीर्तिताः स्वनाममिः प्रोक्ताः, वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः। मइआ इति । पाठान्तरम् , तत्र मयका मया । के एते ? इत्याह-ये एते लोकस्य पाणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्धयन्ति है। स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वम् , तदर्थ बोधिलाभः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति, तम् । तदर्थ च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः । असावपि तारतम्यभेदादनेकधैव, अत आह–उत्तमं सर्वोत्कृष्टम् , ददतु प्रयच्छन्तु, एतच्च भक्त्योच्यते । यत उक्तम्
"भासा असच्चमोसा नवरं भत्तीइ भासिआ एसा ।
न हु खीणपिजदोसा दिति समाहिं च बोहिं च ॥१॥" [आवश्यकनियुक्तौ ११०८] इति ।
१ इदं वचनं ललितविस्तरायाम् “उक्तं च" इत्यभिधायोद्धतम् ॥ २ न तत्स्तवो-मु.॥ ३ जे ते लो०-सं.। जित्तिम कोलोगस्स उत्तिमा-खं.॥ ४ आरोग-शां. सं.। आरोग्ग-खं.॥ ५०मुत्तिम-खं.॥
For Private & Personal Use Only
Jain Education Internal
www.jainelibrary.org