________________
तृतीयः
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥६२६॥
॥६२६॥
कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः । तथा गर्भस्थे जननी रत्नानां कुन्थु राशिं दृष्टवतीति कुन्थुः ।१७
प्रकाशः " सर्वो नाम महासत्त्वः कुले य उपजायते ।
श्लोकः १२३ तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १॥" [ इति वचनादरः । तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः। १८ । । परीपहादिमल्लजयान्निरुक्तान्मल्लिः, तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति । मल्लिः । १९ ।
मन्यते जगतस्त्रिकालावस्थामिति मुनिः, “मनेरुदेतौ चास्य वा" [उणादि० ६१२] इति इप्रत्यये उपान्त्यस्योत्वम् । 'लोगस्स'शोभनानि व्रतान्यस्येति सुव्रतः। मुनिश्वासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनि- सूत्रव्याख्या सुव्रतः । २।
परीपहोपसर्गादिनामनाद् “नमेस्तु वा” [उणादि० ६१३] इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ ।
धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः । २२।
१ कुन्थुराशि-शां. खं. ॥ २ तस्यातिवृद्धये-खं. ॥ ३ मातुः एकऋतौ सर्वर्तुसुरभिकुसुम-मु.॥ ४ नमनाद्-शां.॥
Jain Education
2nal
For Private & Personal Use Only
www.jainelibrary.org