________________
॥ ६२५॥
सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त है इति शीतलः । १०। ___सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् , श्रेयांसावंसावस्येति पृषोदरादित्वात् श्रेयांसो वा। तथा गर्भस्थेऽस्मिन् | केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः । १० ।
वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः । तथा गर्भस्थेऽऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः। वसुपूज्यस्य राज्ञोऽयमिति वा "तस्येदम्"। [सि० ६॥३॥६०] इत्यणि है। वासुपूज्यः । १२।
विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः । तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ ।
अनन्तकाशान् जयति, अनन्तैर्वा ज्ञानादिभिर्जयति अनन्तजित् । तथा गर्भस्थे जनन्या अनन्तरत्नं दाम दृष्टम् , जयति च त्रिभुवनेऽपीति अनन्तजित् , भीमो भीमसेन इति न्यायादनन्त इति । १४ ।
दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः । तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात् तदात्मकत्वात् तत्कर्तृत्वाद्वा शान्तिरिति । तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः । १६ । १ प्राज्ञादित्वादणि वासपूज्यः-सं.। "प्रशादिभ्योऽण" सि० ७।२।१६५ ॥ २ विगतमलो विमलः, विमलानि वा-मु.॥ ३ रत्नदाम-मु.॥
॥ ६२५॥
Jain Education into
For Private & Personal Use Only
92ww.jainelibrary.org