SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्तिविभूषितं योगशास्त्रम् ॥६२४॥ ॥६२४॥ HEIRTERTEREHEYENEMIEREHERETERMSHERSNEHEATRIKSHEKEHCHE परीपहादिभिर्न जित इति अजितः। तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजितः।२। तृतीयः सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, प्रकाशः तत्र “शषोः सः" [सि० ८॥१।२६०] इति सत्वे संभवो। तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवात् सम्भवः । ३।। श्लोकः १२३ अभिन्यन्ते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात् प्रभृति एवाभीक्ष्णं शक्राघभिनन्दनात् अभिनन्दनः । ४। सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जैनन्याः सुनिश्चिता मतिरभूदिति सुमतिः। ५। निष्पकतामङ्गीकृत्य पद्मस्येय प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च । 'लोगस्स'भगवानिति पद्मप्रभः । ६। सूत्रव्याख्या शोभनाः पार्था अस्येति सुपार्श्वः। तथा गर्भस्थे भगवति जनन्यपि सुपार्था जातेति सुपार्श्वः । ७।। ___ चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः। तथा देव्याश्चन्द्रपानदोहदोऽभूत् चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८ । शोभनो विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम । ९ । १ राशामजिता-खं. ॥ २ सम्भवः-मु.॥ ३ जनन्या-शां. खं.॥ ४ शोभना पार्था-खं. सं.॥ HEHEHCHCHEHEHEREHEHEHEHREHEENCHEMEHCHEHRESHCHCHCHE Jain Education Intelsat For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy