________________
॥ ६२१ ॥
Jain Education Inter
Bawaalek
स्मरणेन न तद्वैकल्येन । वर्धमानयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामेवमेव । ' तिष्ठामि' करोमि कायोत्सर्गम् । ननु प्राक् 'करोमि कायोत्सर्गम्' इत्युक्तम्, साम्प्रतं ' तिष्ठामि' इति किमर्थमुच्यते ? सत्यम्, सैत्सामीप्ये सद्वत् प्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाभिमुख्यं पूर्वमुक्तम्, इदानीं त्वासन्नतरत्वात् क्रियाकाल-निष्ठाकालयोः कथश्चिदभेदात् तिष्ठाम्येवाहमिति ।
किं सर्वथा तिष्ठामि कायोत्सर्गंम् ? नेत्याह—– अन्नत्थ ऊससिएणमित्यादि व्याख्यातपूर्वम् । कायोत्सर्गश्चाष्टोच्छ्वासमात्रः, न त्वत्र ध्येयनियमो ऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो 'नमो अरहंताणं' इति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति, अथ बहवस्तत एक एव स्तुतिं पठति अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति ।
तदनन्तरं तस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्र निवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति, पठन्ति वीं
३" सत्सामीप्ये सद्वा" - सि. ५।१।१ ॥ ४ व्याख्यातं - मु. ५ ०मानः७ अत्र 'त्वस्यामेव ' इति पाठः समीचीनो भाति । तुलना" - ललितविस्तरा ॥ ८ ०क्षेत्रे - शां. ।। ९० निवासिनामास० - मु. ॥ मध्ये नास्ति । शां. खं. मध्ये किमस्ति तद् न शायते । " पठति पठन्ति
१ वर्धमानतयेति - मु. ॥ २० सामेव । मु. ॥ शां. ॥ तुलना-ललितविस्तरा ॥ ६ अरिहंता - मु. ॥ ፡፡ पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले ये भारते १० वा तथा लोगस्स - मु. ॥ अयं ' तथा ' इति पाठः सं.
वा । स चायम्-लोगस्स " - ललितविस्तरा ॥ इत आरभ्य तुलना आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ४९१-५१० ॥
For Private & Personal Use Only
10
॥ ६२१ ॥
www.jainelibrary.org