________________
Teeeeee
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
।। ६२० ॥
Jain Education Inter
alederce
श्रावस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः तथा 'सम्माणवत्तियाए', सम्मानप्रत्ययं सम्माननिमित्तम्, सम्मानः स्तुत्यादिभिर्गुणोन्नतिकरणम्, मानसः प्रीतिविशेष इत्यन्ये ।
अथ वन्दनादयः किंनिमित्तमित्याह – 'बोहिलाभवत्तियाए,' बोधिलाभोऽर्हत्मणीतधर्मप्राप्तिः, तत्प्रत्ययं तन्निमितम् । बोधिलाभोऽपि किंनिमित्तमित्याह - ' निरुवसग्गवत्तियाए,' जन्माद्युपसर्गाभावेन निरुपसर्गो मोक्षः, तत्प्रत्ययं तन्निमित्तम् ननु साधु श्रावकयोबोंधिलाभोऽस्त्येव, तत्किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव । उच्यतेक्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाद् जन्मान्तरे च तस्यार्थ्यमानत्वान्निरुपसर्गोऽपि तद्द्वारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः ।
अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह - ' साए मेहाए थिईए धारणाए अणुप्पेहाए वडूमाणीए ठामि काउसम्गं' । श्रद्धा मिथ्यात्वमोहनीय कर्मक्षयोपशमादिजन्योदकप्रसादकमणिवश्चेतसः प्रसादजननी, तथा श्रद्धया, न तु बलाभियोगादिना, एवं मेधया, न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी | ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया, नासमञ्जसत्वेन । एवं धृत्या मनःसमाधिलक्षणया, | रागद्वेषाद्याकुलतया । [ एवं ] धारणया अर्हगुणाविस्मरणरूपया, न तु तच्छ्रन्यतया । एवमनुप्रेक्षयाऽर्हद्गुणानामेव मुहुर्मुहुरनु१ सन्मान०- मु.। एवमग्रेऽपि सर्वत्र ॥ २ मानसप्रीति०- मु. ॥ ३०धर्मावाप्तिः- मु. ॥ ४ एवं नास्ति मु. विना ।।
For Private & Personal Use Only
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६२० ॥
5
'अरिहंत
चेइयाणं '
सूत्रव्याख्या
10
ww.jainelibrary.org.