SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ करोमीति सम्बन्धः-कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य के परित्यागः, तं करोमि। 'वंदणवत्तियाए' वन्दनप्रत्ययम् , वन्दनमभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं 'कथं नाम कायोत्सर्गादेव मम वन्दनं स्यात् ' इति । वत्तियाए इत्यार्षत्वात्सिद्धम्, एवं सर्वत्र द्रष्टव्यम्। तथा ' पूअणवत्तिहैयाए', पूजनप्रत्ययं पूजननिमित्तम् , पूजनं गन्धमाल्यादिभिरभ्यचर्नम् । तथा ' सकारवत्तिआए', सत्कारप्रत्ययं सत्कार निमित्तम् , सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ननु यतेः पूजनसत्कारावनुचितौ द्रव्यस्तवत्वात् , श्रावकस्य तु साक्षात् पूजासत्कारकर्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला, उच्यते साधोव्यस्तवप्रतिषेधः करणमधिकृत्य, न पुनः कारणानुमती, यत उपदेशदानतः कारणसद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह _"सुव्वइ अ वइररिसिणा कारवणं पि अ अणुट्ठियमिमस्स । वायगगंथेसु तहा एअगया देखणा चेअ॥१॥" [ पञ्चवस्तुके १२२७] १ वत्तिआए-मु.। एवमग्रेऽपि सर्वत्र ।। २ पूयण शां.॥ ननु च यते:-मु. शां. ॥ ४ "श्रूयते च वर्षिणा पूर्वधरेण है कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य द्रव्यस्तवस्य 'माहेसरीउ [सेसा] पुरिअं' [आवश्यकनियुक्तौ ७७२] | इत्यादिवचनात् , वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु एतद्गता जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते 'जिनभवनम्। ] इत्यादिवचनादिति गाथार्थः ॥” इति अभयदेवसूरिविरचितायां पञ्चवस्तुकटीकायाम् ॥ ५ तहा आगया-मु.॥ ६ चेव-मु., पञ्चवस्तु ॥ ॥ ६१९॥ For Private & Personal Use Only Jw.jainelibrary.org Jain Education Intem
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy