________________
क्षेत्रलक्षणा, सैव गम्यमानत्वाद् गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथा । स्थानम् , तिष्ठन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः
___ " इहं बुदि चइत्ताणं तत्थ गंतूण सिझइ। [आवश्यकनियुक्तौ ९५९] इति। निश्चयतस्तु स्वस्वरूपमेव, “ सर्वे भावा आत्मभावे तिष्ठन्ति" [ ] इति वचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः। तदेवंविधं स्थानं| सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापच्या प्राप्ताः, तेभ्यः। न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात् , नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति, अत एव कायप्रमाणे आत्मेति सुस्थितं वचनम् । तेभ्यो नम इति क्रियायोगः। एवंभूता एवं |प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति।।
जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरन्नाह-नमो जिणाणं जिअभयाणं, नमो जिनेभ्यो जितभयेभ्य इति ।
तदेवं 'सव्वण्णूण संवदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं जियभयाणं' इत्येवमन्तस्त्रिभिरालापकः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । ९।
१ इह-मु. ॥ इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति ॥ २ सिझई-खं ॥ ३ सदैकस्वभावात्-खं ॥ तदेकस्वभावात्-सं.॥ क्षेत्रतोऽसर्वगत-मु.॥ दृश्यतां ललितविस्तरा।। ५ प्राप्तिः सम्भवति-मु.॥ ६ ०णमात्मेति-मु.॥ “मध्यव्यापीति भावना"-ललितविस्तरा॥ ८ सव्वदंसीणं-खं. सं.॥
Jain Education Intel
For Private & Personal Use Only
w
w.jainelibrary.org