________________
स्वोपश
वृत्ति
तृतीयः प्रकाशः श्लोकः १२३
॥६१६॥
॥६१६॥
विशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च ते एय ज्ञायन्ते ते एव च दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति ।
ननु ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते विभूषितं न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समता-विषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति । योगशास्त्रम् न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् । ततश्वाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते,
अभ्यन्तरीकृतविषमताख्यधर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञाः | सर्वदर्शिनश्च, तेभ्यः ।
एते च सर्वगतात्मवादिभिर्मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते। यदाहुस्ते"मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः।" [ ] इति।
तन्निराकरणार्थमाह-सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणवत्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं । शिवं सर्वोपद्रवरहितत्वात् । अचलं स्वाभाविक-प्रायोगिकचलनक्रियारहितत्वात् । अरुजं व्याधिवेदनारहितम् , तन्निबन्धनयोः शरीरमनसोरभावात् । अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात् । अक्षयं विनाशकारणाभावात् । अव्यावाधमकर्मकत्वात् । अपुनरावृत्ति,
न पुनरावृत्तिः संसारेऽवतारो यस्मात् । सिद्धिगतिनामधेयम् , सिद्धयन्ति निष्ठितार्था भवन्त्यस्यो जन्तव इति सिद्विलोकान्तऐन १ एव दृश्यन्ते-मु.॥ २ ताह्वधर्माण-खं.॥ ३ ०मरुअम०-मु.॥. ४ ०रावित्ति-मु.॥ ५ मकर्मत्वात्-मु.॥
६ वृत्तिः-शां. सं. ॥ ७ भवन्त्यस्या-खं. ॥
चैत्यवन्दनसूत्रव्याख्या
Jain Education
For Private & Personal Use Only
www.jainelibrary.org