________________
६१५॥
कृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् , हीनादिकरणे
रागद्वेषानुपङ्गः । न चान्यत्राऽन्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात् । एवं च जगत्कर्तरि लयाभावाद् मुक्तत्वसिद्धिः। क एवं मोचयन्त्यन्यानपीति मोचकाः, तेभ्यः । ___एवं च जिनत्व-जापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व मोचकत्वैः स्व-परहितसिद्धरात्मतुल्यपर-फलकर्तृत्वसम्पदष्टमी ॥ ८॥
एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदेर्शिनश्चेष्यन्ते " बुद्धयध्यवसितमर्थ पुरुषश्चेतयते” [ इति वचनात् । एतन्निराकरणायाह-सव्वण्णूणं सव्वदरिसीणं । सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्स्वभावत्वे निरावरणत्वात् । उक्तं च
"स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया।
चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥"[ ] ___न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम् , पैरिनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवनदर्शनात् । इति । बुद्धिलक्षणं करणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः ।
___ अन्यस्त्याह-ज्ञानस्य विशेषविषयत्वाद् दर्शनस्य च सामान्यविषयत्वात् तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादिति । उच्यते-न हि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्य
१ आत्मतुल्यफलकर्तृत्वं सम्प०-मु.॥ २ ०दर्शिन एवेष्यन्ते-मु.॥ ३ परनिष्ठितप्लवकस्य तरण्डकाभावे-मु.॥
॥६१५॥
Jain Education in 202nal
For Private & Personal Use Only
| www.jainelibrary.org