SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ - ' म एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते " काल एव कृत्स्नं जगदावर्तयति" [ स्वोपक्ष तृतीयः वृत्तिइति वचनात् । एतन्निरासायाह-तिण्णाणं तारयाणं । सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तः तीर्णाः। न प्रकाशः विनीत चैषां तीर्णानां पारगतानामावर्तः सम्भवति, तद्भावे मुक्त्यसिद्धेः। एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः। एवं श्लोकः १२३ पोगशास्त्रम् तारयन्ति अन्यानपीति तारकाः, तेभ्यः। ॥ ६१४॥ एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते " अप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थः" [शाबरभा०] इति वचनात् । एतद्वथवच्छेदार्थमाह-युद्धाणं बोहयाणं। अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंवि दितेन ज्ञानेन बुद्धवन्तो बुद्धाः । न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्षीकरोति । न । चैत्यवन्दनहै चेन्द्रियवदस्वसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम् , इन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदितरूपत्वात् । यदाह सूत्रव्याख्या " अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।" [प्रमाणवि० ] ___ एवं च सिद्धं बुद्धत्यम् । एवमपरानपि बोधयन्तीति बोधकाः, तेभ्यः। ____एतेऽपि जगत्कर्तृलीनमुक्तवादिमिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यते, “ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिः" [[ ] इति वचनात् । एतन्निराचिकीर्षयाऽऽह-मुत्ताणं मोअगाणं। चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वात् मुक्ताः कृत १“सहोपलम्भनियमादभेदो नीलतद्धियोः। अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति॥” इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणविनिश्चये प्रथमपरिच्छदे ॥ २ मुक्काणं-शां. सं.॥ Jain Education Lional For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy