________________
एते च कैश्चित् तत्त्वतः खल्वव्यावृत्तच्छमान एवेष्यन्ते । यदाह
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥" [ ] तथा“ दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १॥" [सिद्ध० द्वा० २०१८] है इति। तन्निवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः। छादयतीति छद्म ज्ञानावरणादिघातिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च,
व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः। नाऽक्षीणे संसारे अपवर्गः क्षीणे च जन्मपरिग्रह इत्यसत , हेत्वभावात न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावाद्, मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शन-2 धरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् ।
एते च कैल्पिताविद्यावादिभिः परमार्थेनाजिनादय एवेष्यन्ते “भ्रान्तिमात्रमसदविद्या"[ ] इति वचनात् । एतद्वयपोहाय आह-जिणाणं जावयाणं । रागादिजेतृत्वाजिनाः। न च रागादीनामसत्त्वम् , प्रतिप्राण्यनुभवसिद्धत्वात् । न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात् । एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः, तेभ्यः।।
१ जन्मपरा०-मु.॥ २ कल्पिताविद्यावादिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्विद्येति-मु.॥
॥६१३॥
Jain Education
Ional
For Private & Personal Use Only
www.jainelibrary.org