________________
तृतीयः प्रकाशः श्लोकः १२३
वृत्ति
चैत्यवन्दन सूत्रव्याख्या
लोकहितत्वेन चक्रवर्त्यादिचक्रापेक्षया च वरं प्रधानं चतसृणां गतीनां नारक-तिर्यग्-नरा-ऽमरलक्षणानामन्तो यस्मात् तच्चतुरन्त स्वोपज्ञ
चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात् , तेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः। चाउरन्तेति । विभूषितं
समृद्धयादित्वादात्वम् । योगशास्त्रम् ____ एवं धर्मदत्वादिभिः पञ्चभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता । ६। इदानीं
" सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु। ॥६१२॥
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥१॥" [प्रमाणवा० १३३] इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् प्रतिक्षिपति-अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं । अप्रतिहते सर्वत्रापतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधराः, तेभ्यः। अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च। ज्ञानग्रहणं चादौ 'सर्वा लब्धयः | साकारोपयोगोपयुक्तस्य भवन्ति' इति ज्ञापनार्थमिति।
१ “अतः समृद्धयादी वा” [सि०८११४४] इति सूत्रेण आत्वम् इत्यर्थः ॥ २ ०सम्पदेव विशे०-मु.॥ ३“तस्मादकानुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। ३३॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः। प्रायः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३४॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानु
पास्महे॥३५॥" इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणवार्तिके प्रमाणसिद्धिपरिच्दे पाठः ॥ ४ सामान्यविशेषावबोध०-शां.॥ ५०णत्वे सर्व-सं.॥ ६ युक्तस्येति झाप०-मु., ललितविस्तरा ।।
Jain Education Interna
For Private & Personal use only
ch.jainelibrary.org