SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ॥ ६११॥ न्येषाम् । पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावात्। एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि-अभयफलं चक्षुः, चक्षुःफलं मार्गः, मार्गफलं शरणम् , शरणफलं बोधिः, सा च भगवद्भय एव भवतीति बोधि ददतीति बोधिदाः।। एवमभयदान-चक्षुर्दान-मार्गदान-शरणदान-बोधिदानेभ्यो यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता। __साम्प्रतं स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदुच्यते-धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं । धर्मदेभ्यः, इह धर्मश्चारित्रधर्मो गृह्यते, स च यति-श्रावकसम्बन्धिभेदेन द्वेधा । यतिधर्मः सर्वसायद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः । स चायमुभयरूपोऽपि भगवद्भय एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव । प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । ___धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति, नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्ति धर्मदेशकाः। तथा धर्मनायकेभ्यः। धर्मोऽधिकृत एव, तस्य नायकाः स्वामिनः, तद्वशीकरणभावात् तदुत्कर्षावाप्तेस्तत्प्रकृष्टफलभोगात् द्विधातानुपपत्तेश्च धर्मनायकाः। तथा धर्मसारथिभ्यः । प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्तन-पालन-दमनयोगतः सारथयो धर्मसारथयः । तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः। धर्मः प्रस्तुतः, स एव त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्मचक्रापेक्षया उभय१ विशेषोपयोग-मु.॥ २ देशयन्तीति-मु.॥ ३ तव्याघाता-मु.॥ ४ शुद्धितया-मु.॥ Jain Education Intem jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy