________________
६०९॥
तथा लोकहितेभ्यः । इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनमरूपणरक्षणयोगेन हिता लोकहिताः।
तथा लोकप्रदीपेभ्यः । अत्र लोकशब्देन विशिष्ट एव देशनायंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभायः मंजिलोकः परिगृह्यते. तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः । न ह्यन्धं प्रति प्रदीपः प्रदीपो नाम । तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः। | तथा लोकप्रद्योतकरेभ्यः। इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तमकारं जीवादिवस्तुतत्त्वम् , तत्प्रद्योतकरणश्च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति । तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः।
एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्येनोपयोगसम्पञ्चतुर्थी ४।
इदानीमुपयोगसम्पद एव हेतुसम्पदुच्यते-अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं । इह भयं सप्तधा इह-परलोका-ऽऽदाना-ऽकस्मादा-ऽऽजीव-मरण-श्लाघाभेदेन। एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं धृतिरित्यन्येषाम् । तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् । भगवन्त एव ददतीत्यभयदाः, तेभ्यः।
१ प्रद्योतं-मु.॥ २ विशिष्टतत्त्व०-मु.॥ ३ ०करणाः स्तोत०-मु.॥ ४ इह अभयं-मु.॥ ५ निःश्रेयसे धर्म-मु.॥
॥६०९॥
Jain Education Intel
For Private & Personal Use Only
PEww.jainelibrary.org