SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ६०८ ॥ Jain Education Inte एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत् तृतीया ३ । इदानीं स्तोतव्यसम्पद एव सामान्येनोपयोग सम्पदमाह - लोगोत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपञ्जअगराणं । समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया | उच्यन्ते, elelaledodaee “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रं । तैद्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ " [ ] इति वचनात् । तथापीह लोकशब्देन भव्यसच्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः । अन्यथा |अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनॅतथाभव्यत्वभावेनोत्तमा लोकोत्तमाः, तेभ्यः । तथा लोकनाथेभ्यः । इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः " योगक्षेमकृन्नाथः " "[ ] इति वचनात् । तदिह येषामेव बीजाधानोद्भेदपोपयोगः, क्षेमं च तत्तदुपद्रवरक्षणेन, ते एव भव्या लोकशब्देन गृह्यन्ते । न चैते योग-क्षेमे सकलभव्यसत्त्वविषये कस्यचित् | सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गात् । तस्मादुक्तस्यैव लोकस्य नाथा इति । २ लोगु० - मु. ॥ ३ पज्जोयग०- शां. ॥ ४ ०नतया भव्य० - मु. ॥ १ हेतुर्विशेष० - सं. । हेतुं विशेष०-खं. ॥ ५ तथा नास्ति मु. ॥ ६ तस्मिन्नेव खं. ॥ For Private & Personal Use Only तृतीयः प्रकाशः श्लोकः १२३ || ६०८ ॥ 5 चैत्यवन्दनसूत्रव्याख्या 10 www.jainelibrary.org.
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy