________________
॥ ६०७॥
यदाहुस्ते–“ विरुद्धोपमायोगे तद्धापत्या तदवस्तुत्वम् ” [ ] इति। तद्वयपोहायाह-पुरुषवरपुण्डरीकेभ्यः । पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि, तेभ्यः । यथा हि पुण्डरीकाणि पङ्के जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतियनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति, तथा भगवन्तोऽपि कर्मपङ्के जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन तिर्यग्नरामरैः 815
सेव्यन्ते, निवृत्तिसुखहेतवश्च जायन्ते, इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु के विजातीयोपमायोगे तद्धर्मापत्तिरापद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति ।
एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयहीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते, “अभिधानक्रमाभावे अभिधेयमपि तद्वदक्रमवदसत्" [ ] इति वचनात् । एतन्निरासायाह-पुरुषवरगन्धहस्तिभ्यः। पुरुषा वरगन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रगजा भज्यन्ते तद्व परचक्र-दुर्भिक्ष-मारिप्रभृतयः सर्व एवोपद्रवगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते। न चैवम
भिधानक्रमाभावेऽभिधेयमक्रमवदसदिति वाच्यम् , सर्वगुणानामेकत्राऽन्योन्यसंवलितत्वेनावस्थानात् , तेषां च यथारुचि हे स्तोत्राभिधाने न दोषः ।।
संसारिजला-खं.॥ २०मायोगेन तद्धा-मु.॥ ३ रापाद्यते-मु. शां.॥ ४ सुरगुरोविनेयै०-मु.॥ ५ तद्वदिति कोपर-मु.॥ ६ व्यमपि क्रमव०-मु.। ०यक्रमव०-सं. ॥ ७ तेषां यथा-मु.॥
BHIMHEHEREHEROEICHESHERLENCHCCCCCCCCCCHCH
॥६०७॥ www.jainelibrary.org
Jain Education Inte
2