SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ विभूषितं हत्थीणं। पुरि शरीरे शयनात् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवच्छरीरवासिनः सत्त्वाः, तेषामुत्तमाः सहजतथाभव्यस्वोपज्ञ तृतीयः वृत्तित्यादिभावतः श्रेष्ठाः पुरुषोत्तमाः, तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः प्रकाशः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति। न खल्वसमारचितमपि श्लोकः १२३ योगशास्त्रम् जात्यरत्नं समानमितरण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति । एवं च यदाहुः सौगताः-"नास्तीह कश्चिद- । ॥६०६॥ भाजनं सत्त्यः" [ ] इति “ सर्वे बुद्धा भविष्यन्ति"[ ] इति च, तत् प्रत्युक्तम् । एते च बाह्यार्थसंवादिसत्यवादिभिः संकृताचार्यशिष्यनिरुपमानस्तवार्हा एवेष्यन्ते " हीनाधिकाभ्यामुपमा मृषा" चैत्यवन्दन सूत्रव्याख्या ] इति वचनात् , तद्वयवच्छेदार्थमाह--पुरुषसिंहेभ्यः । पुरुषाः सिंहा इव प्रंधानशौर्यादिगुणभावेन पुरुषसिंहाः। यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीययोगेन, तपःकर्म प्रति वीरतया ख्याताः। तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्ग, न खेदः संयमाध्वनि, न प्रकम्पो ध्याने। न चैवमुपमा मृषा, तद्द्वारेण है तदसाधारणगुणाभिधानादिति ।। एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तेः १ उपचित०-मु.॥ २ रम्मिणो दृढा-मुः। दृश्यतां ललितविस्तरा॥ ३ संवादसत्यवादिभिः संस्कृता०-मु. है। प्रधानाः शौर्या-मु.॥ ५०प्राप्तिः-मु.॥ Jain Education in al For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy