________________
।। ६०५ ॥
Jain Education
तित्थं भंते ! तित्थं, तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णे समणसंघे पढमगणहरे वा [ भगवती० २०१८ ] ।
तत्करणशीलास्तीर्थकराः । न चाकृत्स्नक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्यावाधनात् । एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थकरत्वमस्माभिरपि नेष्यते ।
3
एतेऽपि सदाशिवानुग्रहात् कैश्चिद्बोधवन्त इष्यन्ते, यदाह -- “ महेशानुग्रहाद् बोधनियमौ " [ ] इति, तन्निराकरणार्थमाह-स्वयंसंबुद्धेभ्यः, स्वयमात्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यगविपर्ययेण बुद्धा अवगतत्तत्त्वाः स्वयं संबुद्धाः; तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसन्निधानायत्तबोधास्तेऽभूवन् तथापि तीर्थकरजन्मनि | परोपदेशनिरपेक्षा एव बुद्धाः । यद्यपि च तीर्थकरजन्मन्यपि लौकान्तिकत्रिदशयचनात् "भैयवं तित्थं पवतेहि " [[ आवश्यक नियुक्तौ २१५ ] इत्येवंलक्षणाद् दीक्षां प्रतिपद्यन्ते तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते ।
इदानीं स्तोतव्यसम्पद एव हेतुविशेषसम्पदुच्यते-- पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंध
१ तीर्थ भदन्त ! तीर्थम् तीर्थकरस्तीर्थम् ? गौतम ! अर्हस्तावद् नियमात् तीर्थङ्करः, तीर्थ पुनश्चतुर्वर्णः श्रमण संघः प्रथमगणधरो वा । “तित्थं भंते! तित्थं तित्थगरे तित्थं ? गोयमा ! अरहा ताव नियमं तित्थगरे, तित्थं पुण चाउवण्णाइण्णो समणसंघो तंजहा-समणा समणीओ सावगा साविगाओ" इति भगवतीसूत्रे पाठो दृश्यते ॥ २ एवं ज्ञान- मु. शां. ॥ ३ भगवंस्तीर्थ प्रवर्तय ॥ ४ पवत्तेह - शां. बिना ।। ५०सम्पद्- मु. ॥ ६ पुरिसुत्त० - मु. ॥
For Privah & Personal Use Only
5
10
॥ ६०५ ॥
www.jainelibrary.org