SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति तृतीयः प्रकाशः श्लोकः १२३ विभूषितं योगशास्त्रम् ॥६०४॥ ॥६०४॥ BREMEMEMEMORRENESHISHEKSHISHEKSHREYSISROHICHCHCHOICICK श्रीर्घातिकर्मोच्छेदविक्रमावाप्तकेवलालोकसम्पत्तिः, अतिशयसुखसम्पच्चानुपमा १० । धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् ११ । ऐश्वयं तु भक्तिभरावनम्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् १२ । एवम्भूता एव प्रेक्षवतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते-आइगराणं तित्थगराणं सयंसंबुद्धाणं । आदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद् गम्यते, तेभ्यः। यद्यपि " सैषा द्वादशाङ्गी न कदाचिन्नासीत् , न कदाचिन्न भवति, न कदाचिन भविष्यति, अभूच्च भवति च भविष्यति च" [नैन्दीसूत्रे सू० ११८] इति वचनाद् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्धम् । ____ एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते “अकृत्स्नक्षये कैवल्याभावात् " [ ] इति वचनादिति तद्वथपोहार्थमाह-तीर्थकरेभ्यः । तीयते संसारसमुद्रोऽनेनेति तीर्थम् , तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा; HEHEHERRORRECHEHENGERREHCHITEHRISHCHEIGHBHEET चैत्यवन्दनसूत्रव्याख्या यदाहु: १०सरणे प्राति०-शां. ॥ २ " इच्छइयं दुवालसंगं गणिपिडगं ण कयाइ णासी, ण कयाइ ण भवति, ण कयाइ ण भविस्सति, भुविं च भवति य भविस्सति य" इति नन्दीसूत्रे पाठः। For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy