________________
॥६०३॥
" यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते। यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥१॥ नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे। अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥२॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे। तदा वैराग्यमेवेति कुत्र नासि विरागवान् ॥ ३॥"
[वीतराग० १२॥४-६] इति ।। मुक्तिश्च सकलक्लेशप्रहाणलक्षणा सन्निहितैवेति ५ । रूपं तु
"सेव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विकुग्विजा।
जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ १॥" [आवश्यकनियुक्तौ ५६९ ] इति निदर्शनसिद्धं सर्वातिशायि ६ ।
वीर्यं च मेरोर्दण्डरूपतां धरित्र्याश्च छत्ररूपतां कर्तुं सामर्थ्यम् , श्रूयते हि तत्कालजातेनैव श्रीमहावीरेण शक्रशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वतः प्रकम्पितः ७ ।
प्रयत्नः परमवीर्यसमुत्थ एकरात्रिक्यादिमहापतिमाभावहेतुः समुद्धातशैलेश्यवस्थाव्यङ्ग्यः ८ । ___इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपङ्कमग्नस्य जगत उद्दिधीर्षाऽतिशयवती ९ । १ सर्वसुरा यदि रूपमङ्गष्टप्रमाणकं विकुर्वीरन् । जिनपादाङ्गष्ठ प्रति न शोभते तद् यथाङ्गारः॥ २ निदर्शनात् सिद्धं-मु.॥
For Private & Personal Use Only
HCHEHENSIBICHRIRICHEIRCLERLEEHRISHCHCHEHCHCHCHECHCHCH
॥ ६०३॥
Jain Education Inte
www.jainelibrary.org