SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् “भगोऽर्क-ज्ञान-माहात्म्य-यशो-वैराग्य-मुक्तिषु । तृतीयः रूप-वीर्य प्रयत्नेच्छा-श्री-धर्मेश्वर्य-योनिषु ॥ १॥" [अनेकार्थसंग्रहे २।३६] प्रकाशः इति वचनादर्क योनिवर्जमिह द्वादशधा भगशब्दस्यार्थः । स विद्यते येषां ते भगवन्तः, निन्दावर्ज भूमादिष्वर्थेषु मतुः ।। श्लोकः १२३ ___ज्ञानं तावद् गर्भनिवासात् प्रभृति आ दीक्षातो मतिश्रुताघधिलक्षणम् , दीक्षानन्तरं तु आ घातिकर्मचतुष्टयक्षयान् | ॥ ६०२॥ मनःपर्ययज्ञानसहितम् , घातिक्षये चानन्तमनन्तविषयं निःशेषभावाभावस्वभावावभासकं केवलज्ञानम् १। माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन, नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन, गर्भनिवासात प्रभृति कुलस्य धनादिवर्धनेन, अग्रणतसामन्तानां च प्रणत्या, ईतिमारिवैरोपहतिवर्जितराज्यकरणेन,* चैत्यवन्दन|अतिवृष्टयनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन, चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चावसेयम् २। सूत्रव्याख्या ___यशस्तु राग-द्वेष-परीषहोपसर्गपराक्रमसमुत्थमाकालप्रतिष्ठं यत् सर्वदा दिवि सुरमुन्दरीभिः पाताले नागकन्याभिगीयते सुरासुनित्यमभिष्ट्रयते च ३।। वैराग्यं मरुन्नरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिनाम, यदा तु सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्माणो भवन्ति तदा सुख-दुःखयोर्भव-मोक्षयोरौदासीन्यमिति त्रिविधमप्यतिशायि भवति । यदवोचाम वीतरागस्तोत्रे १ भूम्यादि-मु.॥ २०पर्ययम्-सं.। ०पर्यायशानसहितम्-मु.॥ ३ भासकेवल०-ख. ॥ ४ ०त्वेनावसेयम्-खं. । ५ ०कर्मणो-मु.॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy