________________
॥ ६०१ ॥
Jain Education I
addealer
अरिहंताणमिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः । आह च
66
'अट्ठविहं पि हु कम्मं अरिभूयं होइ सयलजीवाणं ।
तं कम्मरं हंता अरिहंता तेण वुञ्चति ॥ १ ॥ " [ आवश्यक नियुक्तौ ९२९]
अरुहंताणमित्यपि पाठान्तरम् । तत्र अरोहद् द्भ्योऽनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् । उक्तश्च“ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे नं रोहति भवाङ्कुरः || १ || " [ तत्त्वार्थसत्रस्य अन्तिमकारिकासु का० ८ ] शाब्दिकास्तु च्छन्दस्यैव प्राकृतं रुपत्रयमिच्छन्ति यद्वयमवोचाम -- “ उच्चार्हति " [ सि० ८ २ १११ ],
| चकारादैदितावपि ।
तेभ्योऽभ्यो नमोऽस्त्विति नमः शब्दयोगाच्चतुर्थी, “चतुर्थ्याः षष्ठी " [ सि० ८|३ | १३१] इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी । बहुवचनं चाद्वैतव्यवच्छेदेनाऽर्हद्र हुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च । एते चान्तो नामाद्यनेकभेदा इति भावार्हत्सम्परिग्रहार्थमाह-भगवद्भयः ।
१ कम्ममरी हंता-सं. । कम्ममरिहंता मु. ॥ अष्टविधमपि हु कर्म अरिभूतं भवति सकलजीवानाम् । तत्कमरिहन्तार: अर्हन्तस्तेनोच्यन्ते ॥ २ नारोहति - मु. ॥ ३ ०दति तावपि खं ॥ ४ तुला- ललितविस्तरा ॥
For Private & Personal Use Only
aleeeeee
10
॥ ६०१ ॥
www.jainelibrary.org