SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष विभूषितं योगशास्त्रम् ॥ ५९८॥ TECHERRRRRRRRRHEHREHEREHEHEHEHCHEHCHEHRIENCHE इत्यादिना वा कविकृतेन जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति। प्रणामस्तु तृतीयः पञ्चधा प्रकाशः " एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः। त्रयाणां नमने व्यङ्गः करयोः शिरसस्तथा ॥१॥ कश्लोकः १२३ चतुणां करयोर्जान्वोनमने चतुरङ्गकः। शिरसः करयोर्जान्योः पञ्चाङ्गः पञ्चके नते ॥ २॥"[ ॥५९८॥ मध्यमा तु स्थापनार्हत्स्तवदण्डकेन स्तुत्या चैकया भवति । यदाह " नवकारेण जहन्ना दंडगथुइर्जुअल मज्झिमा णेया । संपुण्णा उक्कोसा विहिणा खलु वंदणा तिविहा ॥ १ ॥" [ पञ्चाशक० ३।२] चैत्यवन्दन सूत्रव्याख्या ___ इत्युत्कृष्टया वन्दनया वन्दितुकामो विरतः साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुनर्बन्धको वा यद्वा भद्रको यथोचितं पतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुंदाश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्दनमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ पणिपातदण्डकसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह HEHORSHIVCHCHEIRCTCHEMERHHHHHHHHHCHEHER १ इत्यादिना च कवि०-खं.। इत्यादिना कविकृतेन च जघन्या-मु. ॥ २ नार्हतः स्तव०-मु.॥ ३ नमस्कारेण जघन्या दण्डकस्तुतियुगलं मध्यमा ज्ञेया। सम्पूर्णा उत्कृष्टा विधिना खलु वन्दना त्रिविधा। ४ जुगल-मु.। जुबला-सं. ॥ ५ अ-शां.। ६ ०पया चैत्यवन्दनया-मु.॥ ७ यथाभद्को -मु.॥ ८ मुक्थु०-मु., ललितविस्तरायां च ॥ For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy