________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ५९४ ॥
Jain Education Inter
eeeeee
विशुद्धिकरणं च विशल्यकरणद्वारेण भवति, अत आह-' विसल्लीकरणेणं', विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणम् तेन हेतुभूतेन ।
किमित्याह – 'पावाणं कम्माणं निग्aायगडाए', पापानां संसारनिबन्धनभूतानां कर्मणां ज्ञानावरणीयादीनां निर्घातनार्थाय निर्घातनमुच्छेदः, स एवार्थः प्रयोजनम्, तस्मै, 'ठामि काउस्सग्गं', अनेकार्थत्वाद्धातूनां ' ठामि' करोमि, | कायस्य उत्सर्गो व्यापारवतः परित्यागः, तम् ।
किं सर्वथा ? नेत्याहै-— अन्नत्थ ऊससिएणं' अन्यत्रोच्छ्वसितात्, तृतीया पञ्चम्यर्थे, ऊर्ध्वं प्रबलं वा श्वसित मुच्छ्रुसितं तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत्तः कायस्य उत्सर्ग इत्यर्थः, उच्छ्वसितं हि निरोद्धुमशक्यम्, तन्निरोधे सद्यः प्राणविघाताद्यापत्तेः । यदाह-
“ ऊसासं न निरुंभइ, अभिग्गहिओ वि किमुअ चिट्ठाए ।
समरणं निरोहे, सुहुमुस्सासं तु जयणाए ॥ १ ॥ " [ आवश्यक निर्युक्त १५२४ ]
एवं निःश्वसिताद्यपि। ‘नीससिएणं,' अधः श्वसितं निःश्वसितम्, तस्मात् । 'खासिएणं' काशितात् । 'छिएणं' श्रुतात् । 'जंभाईएणं,' विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितम् तस्मात् । 'उड्ड एणं 'उद्गारितात् । 'वायनिसग्गेणं' अपानेन पवननिर्गमो १. निग्धाअण०- शां. खं. ॥ २. इत आरभ्य ललितविस्तरायां तुलना द्रष्टव्या ॥ ३. प्रलम्बं- मु. ॥ ४. अभि० - मु. ॥ ५. सुहमु० - शां. खं. ॥ ६. निश्व०-खं. ॥ ७. 'लीपणं' इति आवश्यकसूत्रादौ पाठः ॥ ८. उड्डुइणं-खं. सं. ॥
Beet
तृतीयः
प्रकाशः
लोकः १२३
॥ ५९४ ॥
5
'अन्नत्थ- ' सूत्रव्याख्या
www.jainelibrary.org