________________
॥ ५९३ ॥
addedceon
Jain Education Inter
के त्ति कडं मे पावं ड त्ति अ डेवेमि तं उवसमेणं ।
"
एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ २ ॥ [ आवश्यक निर्युक्त ६८६ - ६८७; १५१९-१५२० ] ऐवमालोचना-प्रतिक्रमणरूपं द्विविधं प्रायश्चितं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चितं प्रतिपित्सुरिदं सूत्रं पठति-तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए ठामि काउस्सग्गं ।।
तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्सग्गमिति योगः । तंत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् अयं भावः - विराधनस्य हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम् तेन पापकर्मनिर्घातना भवति ।
उत्तरीकरणं च प्रायश्चित्तकरणद्वारेण भवति इत्याह- 'पायच्छित्त करणेणं,' प्रायो बाहुल्येन चितं जीवं मनो वा शोधयति प्रायश्चित्तम्, यद्वा पापं छिनत्तीति पापच्छित्, आर्षत्वात् पायच्छित्तं, तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुद्धि - द्वारेण भवतीत्याह -- ' विसोहीकरणेणं', विशोधनं 'विशुद्धिः', अपराधमलिनस्यात्मनो निर्मलीकरणम्, विशुद्धेः करणं विशुद्धिकरणम्, तेन हेतुभूतेन ।
१ क इति कृतं मया पापं ड इतिच लक्ष्यामि तदुपशमेन। एष मिथ्यादुष्कृतपदाक्षरार्थः समासेन ॥। २ धर्मसंग्रह वृत्तिः पृ० १४४ ॥ ३ काउसग्गं-सं. मु.॥ ४ अत्रो-खं. ॥ इत आरभ्य तुलना आवश्यकसूत्रे कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७७९ आवश्यकचूर्णिः पृ० २५० - २५१ ॥ ५०द्वारेण परिष्करण० - मु ॥
For Private & Personal Use Only
10
॥ ५९३ ॥
www.jainelibrary.org