________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
।। ५९० ॥
Jain Education
ऐर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकीसूत्रं व्याख्यायते तच्च ' इच्छामि पंडिकमिउ' - मित्यादि ' तस्स मिच्छामि दुक्कड' मित्यन्तम् ।
'इच्छामि पडिकमिउं इरियावहियाए विराहणाए', इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिकी, काऽसौ ? 'विराधना' जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः ।
अस्मिश्च व्याख्याने ईर्ष्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, | तस्मादन्यथा व्याख्यायते - ईर्यापथः साध्वाचारः, यदाह - " ईर्यापथो ध्यान- मौनादिकं भिक्षुव्रतम् " [
ऐर्यापथिकी, काऽसौ ? विराधना साध्वाचारातिक्रमरूपा, तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः । साध्वाचारातिक्रमश्च | प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम्, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपञ्चः ।
तत्र भवा
वसति विराधना ? 'गमणागमणे,' गमनं चागमनं च समाहारद्वन्द्वस्तस्मिन् । गमनं प्रयोजने सति वहिर्यानम्, | आगमनं प्रयोजनसमाप्तौ स्वस्थान ऍवागमनम् । गमनागमनेऽपि कथं विराधना
? इत्याह-' पाणकमणे ' प्राण्याक्रमणे,
१ पडिकमि इरिया इत्यादि सं. ॥ २ तुलना-धर्मसंग्रहवृत्तिः, पृ० १४२ ॥ ३ इ० - सं. ॥ ४ मौन ध्यानादिकं - मु. ॥
५ एव गमनम्-मु. ॥
tional
For Private & Personal Use Only
Bleepedeeeeeeeeeeeeeeeeeeel
तृतीय
प्रकाशः
श्लोकः १२४
॥ ५९० ॥
5
चैत्यवन्दन
विधौ
ऐर्यापथिकी
सूत्रव्याख्या
10
www.jainelibrary.org