________________
॥ ५८१॥
तञ्च पक्वान्न-फला-ऽक्षत-दीप-जल-घृतपूर्णपात्रादिरूपम् । स्तोत्रं शक्रस्तवादि सद्भुतगुणोत्कीर्तनरूपम् । ततः प्रत्याख्यानं नमस्कारसहिताद्यद्धारूपं सङ्केतरूपं च ग्रन्थिसहितादि कृत्वा यथाशक्तीति शक्त्यनतिक्रमेण, "शक्तितस्त्यागतपसी" [तत्त्वार्थ ६२३] इति सुप्रसिद्धमेव, देवगृहं भक्तिचैत्यरूपं व्रजेद् गच्छेत् । अत्र च स्नान-विलेपन-वर्णक-विशिष्ट वस्त्रा-ऽऽभरणा-ऽलङ्कार-शस्त्रपरिग्रह-विशिष्टवाहनाधिरोहणप्रभृतीनां स्वतः सिद्धानां नोपदेशः। अप्राप्ते शास्त्रमर्थवदित्युक्तमेव । देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा “ सेव्याए इड्ढीए सव्वाए दित्तीए सव्वाए जुईए सव्ववलेणं सव्वपोरिसेणं "[ ]
१ सुद्धमेव-सं.॥ २ सर्वया ऋद्धया सर्वया दीप्त्या सर्वया धुत्या सर्वबलेन सर्वपौरुषेण। तुलना--"सव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं.........चंपाए णयरीए मझमझेण णिग्गच्छइ" इति पाठः कोणिकस्य प्रभुमहावीरवन्दनाय उगमनप्रसङ्गे औपपातिकसूत्रे दृश्यते। “तत्र याने विधिः-'सव्वाए इड्डीए सवाए दित्तीए, सव्वाए जुत्तीए, सवसमुदएणं'
इत्यादिः" इति पञ्चाशकवृत्ती पृ० ३२॥ तुलना-धर्मसंग्रहबृत्तिः पृ० १३६ ॥ तुलना-"यदि राजादिस्तदा सव्वाए इड्डीए सव्वाए शादित्तीए सव्वाए जुईए सव्वबलेणं सव्वपोरिसेणं' इत्यादिवचनात शासनप्रभावनानिमित्तं महर्या चैत्यादिषु याति । अथ
सामान्यविभवस्तदा औद्धत्यादिपरिहारेण लोकोपहास परिहरन् व्रजतीति । तत्र चैत्यप्रवेशेऽयं विधिः-पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण कटक-कुण्डल-केयूर-हाराद्युचिताचित्तद्रव्याणामपरिहारेण एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः...... ''जिनप्रतिमादर्शने शिरस्यञ्जलिकरणेन मनस एकाग्रताकरणेन चेति पञ्चविधाभिगमनेन नषेधिकीपूर्व प्रविशति, यदुक्तं भगवत्यां-'सचित्ताणं दव्वाणं विउसरणयाए अचित्ताण दवाणं अविउसरणयाए एगल्लसाडएणं उत्तरासंगेणं |चक्खुफासे अंजलिप्पग्गहेण मणसो पगत्तीकरणेणं' ति। क्वचित् 'अचित्ताणं दव्वाणं विउसरणयाए' त्ति पाठः, अत्र अचित्तानां द्रव्याणां छत्रादीनां व्यवसरणेन व्युत्सर्जनेन परिहारेणेत्यर्थः, यस्तु राजादिश्चैत्यं प्रविशति स तत्कालं राजचिह्नानि मुकुटचामरादीनि परिहरति, तथा च सिद्धान्त:--"अवहट्ट रायककुहाई पंच चररायककुहरूवाई। खग्गं छत्तोवाणह मउड तह चामराओ य ॥” इत्यादि" इति प्रवचनसारोद्धारवृत्तौ पृ० १३। धर्मसंग्रहात्तिः पृ० १३६॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org