________________
इदानीं महाश्रावकस्य दिनचर्यामाह--
ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् ।
किंधर्मा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् ॥ १२१ ॥ पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशो मुहूर्तो ब्राह्मः, तस्मिन्नुत्तिष्ठेत् निद्रां जह्यात् , परमे तिष्ठन्तीति परमेष्ठिनः पश्चाऽर्हदादयः; तेषां स्तुति ' नमो अरहताणं' इत्यादिरूपामात्यन्तिकतद्बहुमानकार्यभूतां परममङ्गलार्थ वा पठन्नव्यक्तवर्णामिति शेषः । यदाह--
"परमेटिचिंतणं माणसम्मि सेज्जागएण कायव्वं । सुत्ताविणयपवित्तीनिवारिया होइ एवं तु ॥ १॥"[ अन्ये त्वविशेषेणैव नमस्कारपाठमाहुः 'न सा काचिदवस्था यस्यां पञ्चनमस्कारस्यानधिकारः' इति मन्वानाः।।
न केवलं पठन् , को धर्मो यस्याऽसौ किंधर्मा, किं कुलं यस्याऽसौ किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मीत्यहमिति च स्मरन् , इदं भावतः स्मरणम् । उपलक्षणत्वात् के गुरवो ममेति द्रव्यतः, कुत्र ग्रामे नगरादौ वा वसामीति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि स्मरन् , धर्मस्य जैनादेः कुलस्येक्ष्वाक्कादेः व्रतानामणुव्रतादीनां स्मरणे तद्विरुद्धपरिहारस्येषत्करत्वात् ॥ १२१ ॥
१ अरिहंताणं-मु.॥ २ गाथेयं पञ्चाशकवृत्तौ [पृ० ३१] धर्मसंग्रहवृत्तौ पृ० १२३] च उद्धता॥ ३ परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम् । सूत्रा( सुप्ता!)विनयप्रवृत्तिः निवारिता भवति एवं तु ॥
HOMHEMERCHRISTIBIEBHEIGHBHEHRESERVERRRRRREN
Jain Education
nal
For Private & Personal Use Only
www.jainelibrary.org