________________
॥ ५७७ ॥
Jain Education
ननु श्रावक इत्युच्यताम्, महाश्रावक इति तु महत्त्वविशेषणं किमर्थम् ! उच्यते – श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पच्योच्यते; यदाह-
'संपेत्तदंसणाई पइदियहं जइजणा सुणेई य ।
सामायारिं परमं जो खलु तं सावयं वैति ॥ १ ॥ " [ सम्बोधप्रकरणे ५१ गा० ९६९, श्रावकमज्ञप्तौ गा० २]
16
tional
"
“ श्रद्धालुतां श्राति पदार्थचिन्तनाद् धनानि पात्रेषु वपत्यनारतम् ।
किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥ २ ॥ " [
]
इति निरुक्ताच्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम् । विवक्षितस्तु निरतिचारसकलत्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनाद्दर्शन| प्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावकशब्देनोच्यत इत्यदोषः ॥ ११९ ॥
सप्तक्षेत्र्यां धनवपनं व्यतिरेकद्वारेण समर्थयते-
यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् ।
कथं वराकश्चारित्रं दुश्वरं स समाचरेत् ॥ १२० ॥
१ “ तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु" इत्युल्लेखपुरःसरमुद्धतेयं गाथा नवपदप्रकरणवृहद्वत्तौ पृ० ३०७ । “ अत एवान्यत्र पूज्यैरेवोक्तम्" इत्युलेखेन पञ्चाशकवृत्तौ [पृ० ३] उद्धृतेयं गाथा । सम्प्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोति च । सामाचारीं परमां यः खलु तं श्रावकं ब्रुवन्ति ॥ २ ०दद्यापि मु., धर्मसंग्रहवृत्ती [ पृ० १२२ ] च ॥
For Private & Personal Use Only
10
11 55% 11
www.jainelibrary.org