________________
स्वोपज्ञ___ काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिय कुर्वन्ति । चतुर्वर्णे च है।
तृतीयः वृत्तिसङ्घ चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः
प्रकाशः विभूषितं योगशास्त्रम्
पुनर्बहुमतचारित्राः, प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रभवान्तरितमोक्षगमनाः शास्त्रेषु । श्लोकः ११९
श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवोत्पश्यामः । दुषसह-यक्षिणी-नागिला॥ ५७६॥
ख्यवति-व्रतिनी-श्रावकवदपश्चिमा सत्यश्रीः। तत् कथं श्राविकाः पापवद्वनितानिदर्शनेन दूष्यन्ते । तस्माद् (रेण परिहरणीयाः, वात्सल्यं चासां करणीयमित्यलं प्रसङ्गेन ।
जिनबिम्बादि
सप्तक्षेत्र्यां न केवलं सप्तक्षेत्र्यां धनं वपन महाश्रावक उच्यते, किन्त्यतिदीनेष्वपि निःस्वा-ऽन्ध-बधिर-पङ्ग-रोगार्तप्रभृतिषु कृपया
धनवनस्य है केवलया धनं वपन् , न तु भक्त्या। भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम् । अतिदीनेषु त्वविचारितपात्रापात्रमविमृष्ट
वर्णनम् कल्पनीयाकल्पनीयप्रकार केवलयैव करुणया स्वधनस्य वपनं न्याय्यम् । भगवन्तोऽपि हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्र्यां धनं वपन् दयया चौतिदीनेषु महाश्रावक उच्यते ।
१ सरितं-मु.॥ २ ०थ्यात्विभिरक्षो-खं. ॥ ३ “दुप्पसहो समणाणं फग्गुसिरी साहुणीण पच्छिमया । नाइल्ल सावयाण सच्चसिरी सावियाणं च ॥ ५३४॥" इति विचारसारप्रकरणे॥ “आचार्यों दुःप्रसहाख्यः फल्गुश्रीरिति साव्यपि। श्रावको नागिलो नाम सत्यश्रीः श्राविका पुनः ॥ १४६ । विमलवाहन इतिराण मन्त्री सुमुखामिधः। अपविश्चिमा भाविनोऽमी दुषमायां हि भारते ॥ १४७ ॥”-त्रिषष्टि० १०॥१३॥ ४ दूरेण न परि-मु.॥ ५०क्षेत्र्यां दीनेषु चातिदयया धनं वपन् महा-मु.।। ६ चा-नास्ति शां.॥
आHEHRCHEHREECHEMECHECRETREEN
Jain Education Inte
For Private & Personal Use Only
w
w w.jainelibrary.org