________________
॥ ५७५॥
चोदनादिकरणम् , वाचना-प्रच्छना-परिवर्तना-ऽनुप्रेक्षा-धर्मकथादिषु यथायोग्यं विनियोजनम् , विशिष्टधर्मानुष्ठानकरणार्थ च साधारणपोषधशालादेः करणमिति ।
श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तच्च ज्ञान-दर्शन-चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानरक्तमनसः साधर्मिकत्वेन माननीयाः। । ननु स्त्रीणां कुतः शीलशालित्वं कुतो वा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे चानुभवाच्च दोपभाजनत्वेन । का प्रसिद्धाः । एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा बज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दराक व्याध्यः, प्रत्यक्षा राक्षस्यः; असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत् कथं दान-सन्मान-वात्सल्यविधानं तासु युक्तियुक्तम् । ___उच्यते--अनेकान्त एष यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोपबहुला
नास्तिकाः कृतनाः स्वामिद्रोहिणो देव गुरुवञ्चकाश्च दृश्यन्ते । तदर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि ।। है यद्यपि कासाश्चिद् दोपबहुलत्वमुपलभ्यते तथापि कासाश्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गण
गरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अप्याहुः___ "निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः। तं कमपि वहति गर्भ, जगतामपि यो गुरुर्भवति॥१॥"[ ] इति ।।
१-ड.ट.॥०पराव-मु. शां.॥ २ तच्च-इति शां. सं. खं. मध्ये वर्तते । तत्र-इति मु.मध्ये वर्तते । धर्मसंग्रहवृत्ती [पृ. १२१ तु 'तद्वच्च' इति वर्तते। अत्र तच्च' इत्यनेन 'धनवपनं च' इति विवक्षितं प्रतीयते ॥ ३०भूमिजा-मु.॥ ४ संमान०-मु.॥
BHIBHIBHIBHIBHERIHSHIBHBHISHEKHEHCHHHHHHHESEaze
Jain Education Intem
For Private & Personal Use Only
ar.jainelibrary.org