________________
॥५७४॥
5
"जानीते जिनपचन श्रद्धते चरति चाऽऽर्यिका[s]शबलम् । स्वोपक्ष
तृतीयः वृत्तिनास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥" [स्त्रीनिर्वाण० ४ ] इति ।
प्रकाशः विभूषितं __तत् सिद्धमेतद् मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो । श्लोकः ११९ योगशास्त्रम्
नास्तिकेभ्यो गोपनम् , स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम् , स्वस्त्रीभिश्च तासां परिच-विधानम् , स्वपुत्रिकाणां च तत्सन्निधौ धारणम् , व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च, तथा विस्मृतकरणीयानां तत्स्मारणम् , अन्यायप्रवृत्तिसम्भवे तन्निवारणम् , सकृदन्यायप्रवृत्तौ शिक्षणम् , पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम् , उचितेनजि
जिनबिम्बादि वस्तुनोपचरणं चेति।
सप्तक्षेत्र्यां श्रावकेषु स्वधनवपनं यथा--साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय,
धनवपनस्य
वर्णनम् किं पुनस्तदनुरूपा प्रतिपत्तिः । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम् , विशिष्टभोजन-ताम्बूल-वस्त्राभरणादिदानम् , आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम् , अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् , धर्म च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् , प्रमाद्यतां च स्मारण-वारण-चोदन-प्रति
मु. विना-स्या नादृष्ट-इति शां. ख. सं. मध्ये धर्मसंग्रहवृत्तौ [पृ० १२१] च वर्तते । मु. मध्ये स्त्रीनिर्वाणप्रकरणे च कास्यां नादृष्टः' इति पाठः ॥ २०विधापनम्-मु.॥ ३०पचारणं-मु. ॥ ०पकरण-च. ॥ ४-ड। ०चोदन-प्रचोदनादि-सं.।
प्रेरण-प्रतिप्रेरणादि०-शां. ॥ ०चोदनाप्रतिचोदनादि-मु.॥ .
Jain Education Intel
or Private & Personal Use Only
www.jainelibrary.org