SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसत्त्वतया दःशीलत्यादिना च मोक्षेऽनधिकारः, तत् कथमेताभ्यो दानं साधुदानतुल्यम् ? । उच्यते-निःसत्त्वमसिद्धम् , ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह "ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधराऽन्या [B] । अपि देव-मनुजमहिता विख्याताः शील-सत्त्वाभ्याम् ॥ १॥ गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । सीतादयः, कथं तास्तपसि विसत्त्वा विशीलाश्च ? ॥२॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसमत्त्वं सत्यभामादेः १ ॥३॥" [स्त्रीनिर्वाण० ३४-३६] ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमयते; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपतिकाल एवाऽन्तःकोटीकोटीस्थितिकानां सर्वकर्मणां भावेन , मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम् , मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् , 12 तच्च नास्ति, यतः १-२०ता शीलवति०-खं. सं. ॥ ३ ०ताः शीलवती-मु.॥ ४ नैव-शां. ॥ ५ कोटिकोटी०-सं.। कोटिकोटि-मु.॥ ॥५७३॥ Jain Education Inter For Private & Personal Use Only काw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy