________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थ दानम् , व्याख्यायमानानां च प्रतिदिनं ।
तृतीयः पूजापूर्वकं श्रेवणं चेति।
प्रकाशः साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं श्लोकः ११९ तारयितुमुद्यतानामा तीर्थकरगणधरेभ्य आ च तदिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपच्या स्वधनवपनं यथाउपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां,
5 प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थं पात्राणाम् , औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि । जनविम्बादि तदस्ति यद् द्रव्य-क्षेत्र-काल-भावापेक्षयाऽनुपकारकं नाम, तत् सर्वस्वस्यापि दानम् , साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं लप्तक्षेत्र्यां च । किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम् ,
धनवपनस्य जि प्रवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह
"तंम्हा सइ सामत्थे आणाभट्टम्मि नो खलु उवेहा । अणुकूलेहिअरेहि अ अणुसट्ठी होइ दायव्या ॥१॥" [ १ श्रावणं-सं. ॥ २ सं. विना-भ्य आवेतद्दिन०-शां. । भ्य अद्यतनदिन०-खं.। भ्य आ चैतदिन-मु. । धर्मसंग्रहवृत्तावपि [पृ० १२०] 'भ्य आ च तद्दिन०' इत्येव पाठः ॥ ३ सर्वस्यापि-खं.॥ ४ च-नास्ति सं.॥ ५ स्वयम०-मु.॥ ६ तथा महता-शां. ॥ ७ जिनवचन-मु. ॥ ८ ०परायणां-खं.॥ "०परायणानाम्" इति धर्मसंग्रहवृत्तौ पृ० १२० ॥ ९ तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलु उपेक्षा। अनुकूलैरितरैश्च अनुशास्तिर्भवति दातव्या ॥ १० प्रतिषु पाठा:-०कृलेहिअरेहि अ अणु०-शां. । ०कूलेहिंअरेहिं अणु०-खं. । कूलेहिइरोहि य अणु०-सं, । कूलगेयरेहि अ अणु०-मु.॥
वर्णनम्
Jain Education
sal
For Private & Personal use only
www.jainelibrary.org