SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ॥ ५७१ ॥ Jain Education कर्णशूलकारित्वेनाऽमृतमपि विषायते । यदि चेदं जिनवचनं नाभविष्यत् तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकूपे भुवनमपतिष्यत् । यथा च ' हरीतकीं भक्षयेद् विरेककामः' इति वचनाद्धरीतकी भक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्गनिमित्त - केवलिका - चन्द्रार्कग्रह चार-धातुवाद-रस-रसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्य निश्चयेनाऽदृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्रेतव्यम् । जिनवचनं च दुःपमाकालवशादुच्छन्नप्रायमिति मत्वा भगवद्भिनीगार्जुन - स्कन्दिलाचार्य्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयं च । यदाह- ational " न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ १ ॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । J " ते सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २ ॥ [ जिनागमपाठकानों भक्तिपूर्वकं संमाननं च । यदाह- " पठति पाठयते पठतामसौ वसन- भोजन- पुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ ” [ ] १ ०दुच्छिन्न० - मु. ॥। २०कानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व संमाननं च- मु. ॥ For Private & Personal Use Only 5 10 ॥ ५७१ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy