SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तृतीयप्रकाशः श्लोकः ११९ 5 किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । स्वोपश ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः॥२॥" [ वृत्तिविभूषितं राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डल-गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् , तथा जीर्णशीर्णानां योगशास्त्रम् चैत्यानां समारचनम् , नष्टभ्रष्टानां समुद्धरणं चेति। ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवन बिम्बपूजादिकरणमनुचितमिय प्रतिभासते षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखनन-दलपाटकानयन-गर्तापूरणेष्टकाचयन-जलप्लावन-वनस्पतित्रसकायविराधनामन्तरेण न हि तद् भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेय । न च धर्मार्थ धनोपार्जनं युक्तम् , यतः-- ___ "धर्मार्थ यस्य वित्तेहा तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥” [ महाभारते वनपर्वणि २।४९ (१) ] इत्युक्तमेव । न च वापी-कूप-तडागादिखननवदशुभोदकं जिनभवनादिकरणम् , अपि तु सङ्घसमागम-धर्मदेशनाकरण-व्रतपतिपच्यादिकरणेन शुभोदकमेव । पड्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन जन्तन रक्षयतामविराधनैव । १ स. विना-विमाननस्ते-खं.। विमानिनस्ते-मु. शां.। धर्मसंग्रहवृत्तावपि [पृ० ११९] ‘विधायिनस्ते' इति पाठः ॥ का२जिनबिम्बपूजादि०-सं.॥ ३०सक्तकुटु०-चं.॥ ४ महाभारते वनपर्वणि द्वितीयेऽध्याये ईदृशः श्लोक उपलभ्यते-"धर्मार्थ कि यस्य वित्तहा वरं तस्य निरीहता। प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम् ।। ४९॥"॥ ५ दृश्यतां पृ० ३९१ पं०१॥ For Private & Personal Use Only जिनभवने धनवपनस्य स्वरूपम् HCHCHCHEENCEMEENETBHEHREEHBHISHEISTEHSHEIGINEER Jain Education a l Riwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy