SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥ ५६७ ॥ Jain Education जिनभवनक्षेत्रे स्वधनवपनं यथा - शल्यादिरहितभूमौ स्वयंसिद्धस्योपल- काष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति|सन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीव निकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद् रत्नशिलाभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूर-कस्तूरिका-गरुप्रभृति धूपसमुच्छलद्धूमपटलजात जलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्य-नान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृति विचित्र वस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतनिपतद्गायन्नृत्यद्वल्गत्सिंहादिनादितवत्सुरसमूह महिमानुमोदनप्रमोदमानजनस्य विचित्रचित्र चित्रीपितसकललोकस्य चामर| ध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर किन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिनो निरन्तरतालारासक हैल्लीस कप्रमुखप्रबन्धनानाभि| नयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽभिनीयमाननाटकको टिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्म-दीक्षा - ज्ञान-निर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् असति तु विभवे तृणकुय्यादि - रूपस्याऽपि । यदाह- “ यस्तृणमयीमपि कुटीं कुर्य्याद् दद्यातथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ॥ १ ॥ १० पूर्व जिन० - सं. ॥ २० भिबद्ध० - सं. ॥ ३ ० त्रचित्रीयतसक० - खं. सं. ॥ ४ तालारसरासक० - मु. ॥ ५ " मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि तत् ॥ २८९ ॥ " इति अभिधानचिन्तामणी ६ ०कोटिरसिक० - सं. ॥ ७ प्रतिपुरग्रामं सं. ॥ For Private & Personal Use Only elelelelelelelelelelelő életételétételéretételSISISIGHE Jonal 1100 ॥ ५६७ ॥ www.jainelibrary.org.
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy