________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ११९
एते पञ्चातिचारास्तुर्यशिक्षारते अतिथिसंविभागनाम्नि स्मृताः । अतिचारभावना पुनरियम्-यंदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः, इत्यवसितानि सम्यक्त्वमूलानि द्वादश बतानि, तदतिचाराश्चाभिहिताः॥११॥ इदानीमुक्तशेष निर्दिशन् श्रावकस्य महाश्रावकत्वमाह
एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् ।
दयया चातिदीनेषु महाश्रावक उच्यते ॥ ११९ ॥ एवं पूर्वोक्तप्रकारेण सम्यक्त्वमूलेष्वतिचारविशुद्धेषु द्वादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलीनः, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्ब-जिनभवना-ऽऽगम-साधु-साध्वी-श्रावक-श्राविकालक्षणा, तस्यां न्यायोपात्तं धनं वपन् निक्षिपन् , मक्षेत्रे हि वीजस्य वपनमुचितमित्युक्तं वपविति, वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सन्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया, तथाहि
जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य ववेन्द्रनीला-ऽञ्जन-चन्द्रकान्त सूर्यकान्त-रिष्टा-ऽङ्क-कर्केतनविद्रम-सुवर्ण-रूप्य-चन्दनोपल-मृदादिभिः सारद्रव्यैविधापनम् । यदाह--
तुलना-"यदा अनाभोगादिना अतिक्रमादिना वा एतानाचरति तदा अतिचारः, अन्यदा तु भङ्गः"--धर्मबिन्दुटीका पृ० ४५, पञ्चाशकवृत्तिः पृ०२८, नवपदप्रकरणबृहद्वत्तिः पृ० ३०८, धर्मसंग्रहवृत्तिः पृ० ११७॥ २ द्वादशवतेषु-खं ॥
जैनविम्बभवना-शां. विना । जिनविम्यभवना-धर्मसं० वृ० पृ० ११८ । इत आरभ्य धर्मसंग्रहवृत्तौ भूयसांशेन समानः पाठो वरीवृत्यते ॥
HEHEREHENSHISHCHEHRIEVENEVERESTHETICKETCHEMEHCHEHEHENSE
सप्तक्षेत्र्यां धनवपनस्य
Jain Education in
For Private & Personal Use Only
lwww.jainelibrary.org