________________
सचित्ते सजीवे पृथ्वी-जलकुम्भोपचुल्ली-धान्यादौ क्षेपणं निक्षेपो देयस्य वस्तुनः, तच्च अदानबुद्धया निक्षिपति, एतज्जानात्यसो तुच्छबुद्धिः यत् सचित्तनिक्षिप्तं न गृह्णते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति है। प्रथमोऽतिचारः १।
तथा तेन सचित्तेन सूरणकन्द-पत्र-पुष्प-फलादिना तथाविधयैव बुद्ध्या पिधत्ते इति द्वितीयः २।
तथा कालस्य साधूनामुचितभिक्षासमयस्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकालः साधनां तं लवयित्वा, 15 अनागतं वा भुङ्क्ते पोषधव्रती। इति तृतीयः ३ । ___ तथा मत्सरः कोपः यथा मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवाऽनेन तावद् ,मकेण मार्गितेन दत्तम् , किमहं ततोऽपि हीन इति मात्सर्याद्ददाति, अत्र परोन्नतिवैमनस्यं मात्सर्य्यम् , यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे
" मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ।" [अनेकार्थसंग्रहे ३।६२१] । इति चतुर्थः ४ । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे" अपदेशस्तु कारणे व्याजे लक्ष्येऽपि ।" [अनेकार्थसंग्रहे ४।३२३] । इति पञ्चमः ५ । १ सचित्ते-मु.॥ २ सचित्तेन पिधत्ते-खं. ॥ ३ °मुपचित०-शां॥ ४ द्रुमकेण-सं. । तुलना-तत्त्वार्थवृत्तिः सिद्धसेनीया ३१ पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७९ ॥ ५ धर्मसंग्रहवृत्तौ [पृ० ११६] अपि उद्धतमिदम् ।। ६ करणे'
॥५६३॥ -धर्मसंग्रहवृत्तौ पृ० ११६॥ ७ लक्षे-सं.॥
Jain Education Int
For Private & Personal Use Only
sww.jainelibrary.org