SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अत्र दिगव्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशावकाशिकव्रतमिति वृद्धाः। अतिचाराच दिगव्रतसंक्षेपकरणस्यैव श्रृयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत् कथं व्रतान्तरसंक्षेपकरणं देशावकाशिकवतम् ? अत्रोच्यते-प्राणातिपातादिबन्तातरसंक्षेपकरणेषु वैध-बन्धादय एवातिचाराः, दिग्बतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः। |भिन्नातिचारसम्भवाच्च दिग्बतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादक्तमिति ॥ ११६ ॥ अथ पोषधव्रतस्यातिचारानाह-- उत्सर्गादानसंस्तारा अनवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥ ११७ ॥ उत्सर्जनमुत्सर्गस्त्याग उचार-प्रस्रवण-खेल सिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्ग करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १। ___आदानग्रहणं यष्टि-पीठ-फलकादीनाम् , तदप्यवेक्ष्य प्रमृज्य च कार्यम् , अनवेक्षितस्याप्रमार्जितस्य चादानमतिचारः। आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्टयादीनाम् , तेन सोऽप्यवेक्ष्य प्रमाज्यं च कार्य्यः, अनवेक्ष्याप्रमाज्यं च निक्षेपोऽतिचार इति द्वितीयः २। १ तुलना-धर्मबिन्दुटीका-पृ० ४४, पञ्चाशकवृत्तिः पृ० २५, प्रवचनसारोद्धारवृत्तिः पृ० ७९, धर्मसंग्रहवृत्तिः पृ० ११५॥ का प्राणातिपातादिविरमणव्रतान्तर-मु.॥ ३ बन्धवधादय-शां. ॥ ४ ०स्ताराननवेक्ष्यार-मु. ॥ ५शिंघा०-खं.॥ ६ बोत्सर्ग || ७ वादान०-शां.॥ Jain Education in For Private & Personal Use Only Plwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy