SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ स्वपक्षवृत्ति विभूषितं योगशास्त्रम् ॥ ५६० ॥ Jain Education Inte आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात् प्रेष्येण स्वयं गमने हि व्रतभङ्गः स्यात् परेण तु आनयने न व्रतभङ्गः स्यादिति बुद्धया प्रेष्येण यदाऽऽनाययति सचेतानादि द्रव्यं तदाऽतिचार इति द्वितीयः २ । तथा पुद्गलाः परमाणवः, तत्संघातसमुद्भवा चादरपरिणामं प्राप्ता लोष्टेष्टका - काष्ठशलाकादयोऽपि पुद्गलाः, तेषां क्षेपणं प्रेरणम् । विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लोष्टादीन् परेषां बोधनाय क्षिपति, तदा लोष्टादिपात| समनन्तरमेव ते तत्समीपमनुधावन्तिः ततश्च तान् व्यापारयतः स्वयमेनुपमर्दकस्याप्यतिचारो भवतीति तृतीयः ३ । शब्द-रूपानुपातौ चेति शब्दानुपातो रूपानुपातश्च । तत्र स्वगृहवृति-प्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने | स्वयमगमनाद् वृति-प्राकारप्रत्यासन्नवर्ती भूत्वा अभ्युत्कासितादिशब्दं करोति, आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छन्दश्रवणात्तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचारः । तथा रूपं स्वशरीरसम्बन्धि उत्पन्नप्रयोजनः शब्दमनुच्चारयन् आह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातः । इयमत्र भावना-विवक्षित क्षेत्राद् बहिः स्थितं | कश्चन नरं व्रतभङ्गभयादाह्रातुमशक्नुवन् यदा स्वकीयशब्दश्रवण-रूपदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छन्दा|नुपात-रूपानुपातावतिचाराविति चतुर्थ - पञ्चमौ ४-५ । इह चाद्यातिचारद्वयम व्युत्पन्नबुद्धितया सहसाकारादिना वा अन्त्यत्रयं तु मायावितया अतिचारतां याति । १० मनुपदर्शकस्या० शां. ॥ २ चेति नास्ति शां. ॥ ३ वृत्ति० - शां. ॥ For Private & Personal Use Only ४ ०श्रवण० खं. ॥ needeoas तृतीय : प्रकाशः श्लोकः ११६ ।। ५६० ।। 5 देशविरती दशमत्रता तिचाराः 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy