________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः
श्लोकः
कायस्य वाचो मनसश्च प्रणिहितिः प्रणिधानम् , दुष्टं च तत् प्रणिधानं च दुष्टप्रणिधानं सावद्ये प्रवर्तनम् , कायदुष्पणिधानं वाग्दुष्पणिधानं मनोदुष्पणिधान चेत्यर्थः । तत्र शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्पणिधानम् , वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्पणिधानम् , क्रोध-लोभ-द्रोहा-ऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्पणिधानम् , एते त्रयोऽतिचाराः । यदाहुः
" अनिरिक्खियापमञ्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावे वि न सो कडसामइओ पमायाओ ॥१॥ [श्रावकप्रज्ञप्तौ ३१५] "कडसामइओ पुचि बुद्धीए पेहिऊण भासिज्जा । सेइ निरवज्जं वयणं अन्नह सामाइयं न हवे ॥२॥" [श्रावकमज्ञप्ती ३१४ ] सामाइयं तु काउं घरचितं जो उ चिंतए सड्ढो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ ३॥" [श्रावकप्रज्ञप्तौ ३१३, सम्बोधप्रकरणे ७।१०९ गा० १२२६]]
१ दुःप्र०-खं. सं.॥ २ अनिरीक्ष्याप्रमृज्य स्थण्डिले स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिका प्रमादात् ॥ कृतसामायिकः पूर्व बुद्धया प्रेक्ष्य भाषेत । सकृद् निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेच्छाद्धः । आर्तवशातेंपगतो निरर्थकं तस्य सामायिकम् ॥ एतास्त्रयो गाथाः पञ्चाशकवृत्तौ [पृ० २३] नवपदप्रकरणबृहद्वत्तौ पृ० २६२] प्रवचनसारोद्धारवृत्तौ [पृ० ७८] धर्मसंग्रहवृत्तौ [ पृ० ११४ ] चापि उद्धताः ॥ ३-४. सामाइओ-सं. मु.॥ सय नि-सं. ॥ ६ 'सामाइयं तु काउं गिहकज जो य' इति सम्बोधप्रकरणे पाठः॥ ७ सामाइय-सं. मु., सम्बोधप्रकरणे च ॥
For Private & Personal use only
MMERCISHEHEREMIERRIERGARHEIGIRIGINEMIEREMOREHatailal
देशविरती नवमव्रतातिचाराः
है
Jain Education Inte
l
Jwww.jainelibrary.org