SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ।। ५५५ ।। Jain Education Interna तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति । तथा येषु पुष्पादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति द्वितीयोऽतिचारः २ । तथा मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटः, तस्य भावो मौखर्यं धाष्टर्यप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति तृतीयः ३ । तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रू नयनोष्ठ-नासा-कर-चरण-मुखविकारैः | सङ्कुचतीति कुत्कुचः, तस्य भावः कौत्कुच्यम्, अनेकप्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः कुकुचः सङ्कोचादिक्रियाभाक्, तद्भावः कौकुच्यम्, अत्र च येन परो हसति आत्मनश्च लाघवं भवति न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रेमादात्तथाचरणे चातिचार इति चतुर्थः ४ । तथा कन्दर्पः कामः, तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी - श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति पञ्चमः ५ । rat द्वापि प्रमादाचरितस्यातिचारौ इत्यवसिता गुणवतातिचाराः ॥ ११४ ॥ अथ शिक्षावतातिचारावसरः । तत्रापि सामायिकस्य तावदतिचारानाहकायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकते ॥ ११५ ॥ १ प्रमादेन तया-खं. ॥ २ वा अति०-खं । चाति० - मु०. प्रवचनसारोद्धारवृत्तिः पृ० ७७ ।। For Private & Personal Use Only aleeeeeeeedaaraarcadiadelaaaaaaaee 10 ॥ ५५५ ॥ w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy