________________
॥ ५५३॥
HSHEEMEHEMEMESNEHICKEICHECHERSNECHECHEHEREHEHREHE
तृणदाहे सति नवतृणाङ्कुरोद्भेदाद् गावश्चरन्तीति, क्षेत्रे वा सस्यसम्पत्तिवृद्धयेऽग्निज्वालनम् । अत्र जीवकोटीनां वधः स्यात् । । सरसः शोषः सरःशोषः, सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह-सरः-सिन्धु-हृदादिभ्योऽम्युनो जलस्य संप्लवः सारणी... कर्षण धान्यवपनार्थम् , आदिशब्दात् तडागादिपरिग्रहः । तत्राऽखातं सरः, खातं तडागम् । सरःशोषे चै जलस्य तद्गतानां । त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति सर शोषे दोषैः। इत्युक्तानि पञ्चदश कर्मादानानि। दिनानं चेदम् ।। एवंजातीयानां बहूनां सावद्यकर्मणाम् , न पुनः परिगणनमिति। इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेष्वतिचारा दृश्याः।
नन्यङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः १ खरकर्मरूपा एव ह्येते। सत्यम् , खरकर्मरूपा एवैते, किन्त्वनाभोगादिना , क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गा एवेति ॥ ११३ ॥ अथानर्थदण्डविरतिव्रतस्यातिचारानाह
संयुक्ताधिकरणत्वमुपभोगातिरिक्तता ॥
मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥ ११४ ॥ १०दिभ्यो योऽम्बुनो-मु.॥ २ सरः०-नास्ति सं. ॥ ३ च-नास्ति शां. ॥ ४ दोषाः-शां. खं. ॥ ५ दिग्मात्रं-शां खं. सं.। तुलना-धर्मबिन्दुटीका पृ० ४२। पञ्चाशकवृत्तिः पृ० २०-२१ । धर्मसंग्रहवृत्तिः पृ० ११२॥ ६ विधीनामपरेषां संग्रह-मु., धर्मबिन्दुटीका।
॥५५३॥
For Private & Personal Use Only
Jain Education Inte
ww.jainelibrary.org