SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ यन्त्रपीडाकर्मणश्व पीडनीयतिलादिवोदात् तद्गतत्रसजीववधाच्च सदोषत्वम् , लौकिका अपि ह्याचक्षते-“ देशसूनासमं चक्रम् [ मनुस्मृतौ ४।८५ ] इति ॥ ११० ॥ ____ अथ निर्लाञ्छनकर्माह नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्ण-कम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥ १११ ॥ नितरां लाञ्छनमगावयवच्छेदः, तेन कर्म जीविका निर्बाञ्छनकर्म । तद्भेदानाह–नासावेधो गो-महिषादीनाम् , अङ्कनं गवाश्वादीनां चिह्नकरणम् , मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवाश्वादीनामेव, पृष्ठगालनं करभाणाम् , गवां च कर्ण-कम्बलच्छेदः । एषु जन्तुबाधा व्यक्तैव ॥ १११॥ अथासतीपोषणमाह सारिका-शुक-मार्जार-श्व-कुक्कुट-कलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ ११२ ॥ असत्यो दुःशीलास्तासां पोषणम् , लिङ्गमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषणम् , सारिका व्यक्तवाक् हैं। १ "दशसूनासमं चक्रं दशचक्रसमो ध्वजः। दशध्वजसमो वेशो दशवेशसमो नृपः ॥” इति सम्पूर्णः श्लोकः ।। कंबलविच्छेदः-मु.॥ Jain Education Intera For Private & Personal Use Only Jww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy