________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोको १०९-११०
NCHCHCHEREKSHEHEREHEHEREHEMEREMIEREMEMEHEHEATREIGNORIES
अथ विषवाणिज्यमाह
विषा-ऽस्त्र-हल-यन्त्रा-ऽयो-हरितालादिवस्तुनः।
विक्रयो जीवितघ्रस्य विषवाणिज्यमुच्यते ॥ १०९ ॥ विषं शृङ्गिकादि, तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अस्त्रं खड्गादि, हलं लाङ्गलम् , यन्त्रमरघट्टादि,
कुशी-कुद्दालादिरूपम्, हरितालं वर्णकविशेषः। आदिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्यम् । विषादेविशेषणं 'जीवितघ्नस्य', अमीषां जीवितनत्वं प्रसिद्धमेव ॥ १०९॥ ___अथ यन्त्रपीडाकर्माह
तिलेक्षु-सर्पपेरण्ड-जलयन्त्रादिपीडनम् ।
दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ ११० ॥ यन्त्रशब्दः प्रत्येकमभिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम् , इक्षुयन्त्र कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते, तस्य कृतिविधानमिति। यन्त्रपीडा यन्त्रपीडनम्।
१ अभिधानचिन्तामणौ ११९५-११९९ श्लोकेषु स्थावरासु विषजातिषु श्रृनिकोऽपि परिगणितः ॥२ ०ते तद्दलतैलं तस्य-मु., धर्मसंग्रहवृत्तिः पृ० ११२ ॥
देशविरतौ | पञ्चदशकादानरूपाः सप्तमव्रतातिचाराः
Jain Education in
nal
For Private & Personal Use Only
www.jainelibrary.org