SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ॥५४९॥ BHEELERIEEEEEEEEEEEEEEEEEERREHEHEN लाक्षा जतु, अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मनःशिलादीनाम् । तान्येवाह-मनःशिला कुंनटी, नीली है गुलिका, धातकी वृक्षविशेषः, तस्य त्वक् पुष्पं च मद्यसन्धानहेतुर्धातकी, टङ्कणः क्षारविशेषः; आदिशब्दात् सकूडादयो । गृह्यन्ते, एषां विक्रयः । स च पापसदनं टङ्कण-मनःशिलयोर्बाह्यजीवघातकत्वेन, नील्या जन्तुघाताविनाभावेन, धातक्या । मद्यतत्वेन, तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वम् , ततस्तद्विक्रयस्यापि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥ १०७॥ ___ अथ रस-केशवाणिज्ये एकेनैव श्लोकेनाह नवनीत-चसा-क्षौद्र-मद्यप्रभृतिविक्रयः। द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रस-केशयोः ॥ १०८ ॥ नवनीतं दधिसारं, वसा मेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम् , द्विपदा मनुष्यादीनां चतुष्पदा गवाश्चादीनां विक्रयः केशवाणिज्यम् , सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां है विक्रयो दन्तवाणिज्यमिति विवेकः। रस-केशयोरिति यथासंख्येन योगः। दोषास्तु नवनीते जन्तुसंमूर्छनं, वसा-क्षौद्रयोर्जन्तुघातोद्भवत्वं, मद्यस्य मैदजननं तद्गतकृमिविधातश्चेति, द्विपाचतुष्पाद्रिक्रये तु तेषां पारवश्यं वध-बन्धादयः क्षुत्पिपासापीडा चेति ॥ १०८॥ मा १ कुटनटी-सं.॥ २ तस्याः-मु.॥ ३ संकूटादयो-मु.। तुलना-प्रवचनसारोद्धारवृत्तिः पृ० ६३ ॥ ४ मानुष्यादीनां-सं.॥ ५ मदनजननं-मु.॥ CTEHEEREHEREHEIRREGNEERIERRRRRRRRRHEHREERENE For Private & Personal use only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy